|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.104. अध्यायः 104
Mahabharata - Udyoga Parva - Chapter Topics
नारदेन आर्यकंप्रति पौत्रार्थं मातलिकन्यापरिग्रहचोदनम् ॥ 1 ॥ आर्यकेण नारदंप्रति सुमुखजनकं भक्षितवता वैनतेयेन मासान्तरे सुमुखभक्षणप्रतिज्ञानिवेदनम् ॥ 2 ॥ मातलिना तार्क्ष्यात्सुमुखरिरक्षया सुमुखनारदाभ्यां सह शक्रसमीपगमनम् ॥ 3 ॥ नारदेन मातालेकार्यं विज्ञापितेन विष्णुना सुमुखाय अमृतवितरणाज्ञापनेपि इन्द्रेण अमृताप्रदानेनैव दीर्घायुर्दानम् ॥ 4 ॥ मातलिना सुमुखाय स्वकन्यां प्रदाय विवाहनिर्वर्तनम् ॥ 5 ॥
Mahabharata - Udyoga Parva - Chapter Text
कण्व उवाच। 5-104-0x(3695)(35442)
मातलेर्वचनं श्रुत्वा नारदो मुनिसत्तमः।
अब्रवीद्देवराजं तमार्यकं कुरुनन्दन॥ 5-104-1(35443)
सूतोऽयं मातलिर्नाम शक्रस्य दयितः सुहृत्।
शुचिः शीलगुणोपेतस्तेजस्वी वीर्यवान्बली ॥ 5-104-2(35444)
शक्रस्यायं सखा चैव मन्त्री सारथिरेव च ।
अल्पान्तरप्रभावश्च वासवेन रणे रणे ॥ 5-104-3(35445)
अयं हरिसहस्रेण युक्तं जैत्रं रथोत्तमम् ।
देवासुरेषु युद्धेषु मनसैव नियच्छति ॥ 5-104-4(35446)
अनेन विजितानश्वैर्दोर्भ्यां जयति वासवः ।
अनेन बलभित्पूर्वं प्रहृते प्रहरत्युत ॥ 5-104-5(35447)
अस्य कन्या वरारोहा रूपेणासदृशी भुवि ।
सत्यशीलगुणोपेता गुणकेशीति विश्रुता ॥ 5-104-6(35448)
तस्यास्य यत्नाच्चरतस्त्रैलोक्यममरद्युते।
सुमुखो भवतः पौत्रो रोचते दुहितुः पतिः ॥ 5-104-7(35449)
यदि ते रोचते सम्यग्भुजगोत्तम मा चिरम् ।
क्रियतामार्यक क्षिप्रं बुद्धिः कन्यापरिग्रहे ॥ 5-104-8(35450)
यथा विष्णुकुले लक्ष्मीर्यथा स्वाहा विभावसोः ।
कुले तव तथैवास्तु गुणकेशी सुमध्यमा ॥ 5-104-9(35451)
पौत्रस्यार्थे भवांस्तस्माद्गुणकेशीं प्रतीच्छतु ।
सदृशीं प्रतिरूपस्य वासवस्य शचीमिव ॥ 5-104-10(35452)
पितृहीनमपि ह्येनं गुणतो वरयामहे।
बहुमानाच्च भवतस्तथैवैरावतस्य च ॥ 5-104-11(35453)
सुमुखस्य गुणैश्चैव शीलशौचदमादिभिः ।
अभिगम्य स्वयं कन्यामयं दातुं समुद्यतः ।
मातलिस्तस्य संमानं कर्तुमर्हो भवानपि ॥ 5-104-12(35454)
कण्व उवाच। 5-104-13x(3696)
स तु दीनः प्रहृष्टश्च प्राह नारदमार्यकः ।
व्रियमाणे तथा पौत्रे पुत्रे च निधनं गते ॥ 5-104-13(35455)
आर्यक उवाच। 5-104-14x(3697)
मन्ये नैतद्बहुमतं महर्षे वचनं तव।
सखा शक्रस्य संयुक्तः कस्यायं नेप्सितो भवेत्।
कारणस्य तु दौर्बल्याच्चिन्तयामि महामुने ॥ 5-104-14(35456)
अस्य देहकरस्तात मम पुत्रो महाद्युते।
भक्षितो वैनतेयेन दुःखार्तास्तेन वै वयम् ॥ 5-104-15(35457)
पुनरेव च तेनोक्तं वैनतेयेन गच्छता ।
मासेनान्येन सुमुखं भक्षयिष्य इति प्रभो ॥ 5-104-16(35458)
ध्रुवं तथा तद्भविता जानीमस्तस्य निश्चयम्।
तेन हर्षः प्रनष्टो मे सुपर्णवचनेन वै ॥ 5-104-17(35459)
कण्व उवाच। 5-104-18x(3698)
मातलिस्त्वब्रवीदेनं बुद्धिरत्र कृता मया।
जामातृभावेन वृतः सुमुखस्तव पुत्रजः ॥ 5-104-18(35460)
सोऽयं मया च सहितो नारदेन च पन्नगः।
त्रिलोकेशं सुरपतिं गत्वा पश्यतु वासवम् ॥ 5-104-19(35461)
शेषेणैवास्य कार्येण प्रज्ञास्वाम्यहमायुषः ।
सुपर्णस्य विघाते च प्रयतिष्यामि सत्तम ॥ 5-104-20(35462)
सुमुखश्च मया सार्धं देवेशमिगच्छतु।
कार्यसंसाधनार्थाय स्वस्ति तेऽस्तु भुजङ्गम ॥ 5-104-21(35463)
`कण्व उवाच। 5-104-22x(3699)
आर्यकेणाभ्यनुज्ञाता गम्यतामिति भारत।'
ततस्ते सुमुखं गृह्य सर्व एव महौजसः।
ददृशुः शक्रमासीनं देवराजं महाद्युतिम् ॥ 5-104-22(35464)
सङ्गत्या तत्र भगवान्विष्णुरासीच्चतुर्भुजः ।
ततस्तत्सर्वमाचख्यौ नारदो मातलिं प्रति ॥ 5-104-23(35465)
वैशम्पायन उवाच। 5-104-24x(3700)
ततः पुरन्दरं विष्णुरुवाच भुवनेश्वरम्।
अमृतं दीयतामस्मै क्रियताममरैः समः ॥ 5-104-24(35466)
मातलिर्नारदश्चैव सुमुखश्चैव वासव।
लभन्तां भवतः कामात्काममेतं यथेप्सितम् ॥ 5-104-25(35467)
पुरन्दरोऽथ संचिन्त्य वैनतेयपराक्रमम् ।
विष्णुमेवाब्रवीदेनं भवानेव ददात्विति ॥ 5-104-26(35468)
विष्णुरुवाच। 5-104-27x(3701)
ईशस्त्वं सर्वलोकानां चराणामचराश्च ये।
त्वया दत्तमदत्तं कः कर्तुमुत्सहते विभो ॥ 5-104-27(35469)
प्रादाच्छक्रस्ततस्तस्मै पन्नगायायुरुत्तमम्।
न त्वेनममृतप्राशं चकार बलवृत्रहा ॥ 5-104-28(35470)
लब्ध्वा वरं तु सुमुखः सुमुखः संबभूव ह।
कृतदारो यथाकामं जगाम च गृहान्प्रति ॥ 5-104-29(35471)
नारदस्त्वार्यकश्चैव कृतकार्यौ मुदा युतौ ।
अभिजग्मतुरभ्यर्च्य देवराजं महाद्युतिम् ॥ ॥ 5-104-30(35472)
इति श्रीमन्महाभारते उद्योगपर्वणि भगवद्यानपर्वणि चतुरधिकशततमोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-104-20 अस्यायुषः शेषेण कार्येण प्रज्ञास्यामि विज्ञापयिष्यामि ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|